अनाथमकृतप्रज्ञं अज्ञानतिमिरावृतम |
मोहपंकनिमग्नंच मामुद्धर सुरेश्वरी ||
त्वां रेणुकेति वरदेति च सुन्दरीति ,
वागीश्वरीति सकलेति च पार्वतीति |
सिद्धेश्वरीति सुभगेति च ये वदन्ति ,
तान देवी नित्यमनघान परिपालय त्वम् ||
अम्बेति विश्वजननीति जगद्धितेति ,
विद्येति धर्मंनिरतेति परात्परेति |
आद्येति वेदजननीति च ये वदन्ति ,
तान देवी नित्यमनाघान परिपालय त्वम् ||
त्वां वेदशास्त्रमितिहास विनोदनीति ,
ब्रह्मेति ब्रह्म गमकती सुरप्रियेति |
एकेत्यनंत फलदेति च ये वदन्ति ,
तान देवी नित्यमनाघान परिपालय त्वम् ||
आनंदभूत निलयेत्यनलोद्भवेति ,
गूढेति भाव गमकेति शुभावहेति |
विशेश्वरीति कमलेति च ये वदन्ति ,
तान देवी नित्यमनाघान परिपालय त्वम् ||
नित्येति दिव्यचरणेति महाव्रतेति ,
हृद्येति भक्त-जनदु:ख- विनाशनीति |
श्रद्धेति रामजननीति च ये वदन्ति ,
तान देवी नित्यमनाघान परिपालय त्वम् ||
त्वां पुण्यदेति जमदग्निऋषिप्रियेति ,
गंगेति तत्वविहितेति परापरेति |
शुद्धेति पातक कदम्ब कुठारकेति ,
तान देवी नित्यमनाघान परिपालय त्वम् ||
त्वां राजनीति परमामृत-भोजनेति ,
शृंगार-मुख्य-नवषट च रसप्रियेति |
लक्ष्मीप्रदेति सुमुखेति च ये वदन्ति ,
तान देवी नित्यमनाघान परिपालय त्वम् ||
स्तुतैवंमुचुकुंदेन रेणुका ब्रह्मरूपिणी |
प्रत्यक्ष रूपा प्रादेहं प्रसन्नाहं मुनीश्वर ||
देव्युवाच
मुचुकुन्द त्वया तुल्यः कश्चिद्भक्तो न विद्यते |
किं प्रार्थयसि मत्तस्त्वं ब्रूहि यत्तेsभि वांछितं ||
मुचुकुन्द उवाच
त्वद्भक्तिमतुलां देहि देवित्वं विश्वरूपिणी |
नान्यदिच्छाम्यहं मातः सत्यमेतन्मयोदितं ||
आत्मनः स्वं परंब्रह्म स्वरूपं दर्शयस्व मे |
यदि तुष्टासि दासस्य कृपया त्वं ममोपरि ||
इति श्री स्कन्दपुराणे रेणुकामाहात्म्ये श्री मुचुकुन्द कृतं रेणुका स्तोत्रं |
Edited by- Awdhoot Yati
No comments:
Post a Comment